वांछित मन्त्र चुनें

प्र ये मि॒त्रं प्रार्य॒मणं॑ दु॒रेवा॒: प्र सं॒गिर॒: प्र वरु॑णं मि॒नन्ति॑ । न्य१॒॑मित्रे॑षु व॒धमि॑न्द्र॒ तुम्रं॒ वृष॒न्वृषा॑णमरु॒षं शि॑शीहि ॥

अंग्रेज़ी लिप्यंतरण

pra ye mitram prāryamaṇaṁ durevāḥ pra saṁgiraḥ pra varuṇam minanti | ny amitreṣu vadham indra tumraṁ vṛṣan vṛṣāṇam aruṣaṁ śiśīhi ||

पद पाठ

प्र । ये । मि॒त्रम् । प्र । अ॒र्य॒मण॑म् । दुः॒ऽएवाः॑ । प्र । स॒म्ऽगिरः॑ । प्र । वरु॑णम् । मि॒नन्ति॑ । नि । अ॒मित्रे॑षु । व॒धम् । इ॒न्द्र॒ । तुम्र॑म् । वृष॑न् । वृषा॑णम् । अ॒रु॒षम् । शि॒शी॒हि॒ ॥ १०.८९.९

ऋग्वेद » मण्डल:10» सूक्त:89» मन्त्र:9 | अष्टक:8» अध्याय:4» वर्ग:15» मन्त्र:4 | मण्डल:10» अनुवाक:7» मन्त्र:9


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ये दुरेवाः) जो दुष्ट गतिवाले-दुर्व्यवहारकर्त्ता जन (मित्रं प्र मिनन्ति) मित्र को मारते हैं (अर्यमणं प्र) अन्नदाता को मारते हैं (सङ्गिरः-प्र) सम्यक् स्तुति करनेवाले ध्यानिजन को मारते हैं (वरुणं प्र) वरनेवाले-रक्षक को मारते हैं (वृषन्-इन्द्र) हे सुखवर्षक-ऐश्वर्यवान् परमात्मन् ! तू (अमित्रेषु) उन ऐसे शत्रुओं के निमित्त (तुम्रं वृषाणम्-अरुषम्) गतिशील प्रबल तीक्ष्ण (वधं नि शिशीहि) घातक वज्र को तीक्ष्ण कर ॥९॥
भावार्थभाषाः - जो दुर्व्यवहार करनेवाले दुष्टजन, मित्र, अन्नदाता, ज्ञानदाता, ध्यानी उपासक रक्षक को पीड़ित करते हैं, उन ऐसे जनों के निमित्त परमात्मा तीक्ष्ण वज्र से प्रहार करता है ॥९॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ये दुरेवाः) ये दुर्व्यवहारकर्त्तारः-दुष्टमेरः प्रापणं गमनं येषां ते जनाः (मित्र प्र मिनन्ति) मित्रं हिंसन्ति (अर्यमणं प्र) दातारम् “अर्यमेति तमाहुर्यो ददाति” [तै० १।१।२।४] (सङ्गिरः-प्र) सम्यक्स्तुतिकर्तारं ध्यानिनं हिंसन्ति (वरुणं प्र) वरयितारं रक्षकं हिंसन्ति (वृषन्-इन्द्र) हे सुखवर्षक परमात्मन् ! त्वम् (अमित्रेषु) तथाभूतेषु शत्रुषु (तुम्रं वृषाणम्-अरुषं वधं नि शिशीहि) गतिशीलं प्रबलं तीक्ष्णं घातकवज्रं “वधं वज्रनाम” [निघं० २।२०] तीक्ष्णीकुरु ॥९॥